Pashupati Academy

SARASWATI BANDANA

सरस्वती मया दृष्टा वीणापुस्तकधारिणी ।

हंसवाहनसंयुक्ता विद्यादानं करोतु मे ।। १।।

प्रथमं भारती नाम द्वितीयञ्च सरस्वती ।

तृतीयं शारदा देवी चतुर्थ हंसवाहिनी ।। २ ।।

पञ्चमं तु जगन्माता षष्ठं वागीश्वरी तथा ।

सप्तमं चैव कौमारी अष्टमं वरदायिनी ।। ३।।

नवमं बुद्धिदात्री च दशमं ब्रह्मचारिणी ।

एकादशं चन्द्रघण्टा द्वादशं भुवनेश्वरी ।। ४।।

द्वादशै तानि नामानि त्रिसन्ध्यं य पठेन्नरः ।

जिह्वाग्रे वसते तस्य ब्रह्मरूपा सरस्वती ।। ५।।

 

Scroll to Top